पूर्वभाग
ईश्वर उवाच
ततो गच्छेन्महादेवि च्यवनार्कमनुत्तमम् ।
हिरण्यापूर्वभागस्थं च्यवनेन प्रतिष्ठितम् ॥ १॥
सर्वकामप्रदं नृणां पूजितं विधिवन्नरैः ।
सप्तम्यां च विधानेन यः स्तोष्यति रविं नरः ॥ २॥
अष्टोत्तरशतैर्नाम्नां सम्यक्छ्रद्धासमन्वितः ।
शृणु तानि महादेवि शुचिर्भूत्वा समाहितः ॥ ३॥
क्षणं त्वं कुरु देवेशि सर्वं वक्ष्याम्यशेषतः ।
धौम्येन तु यथापूर्वं पार्थाय सुमहात्मने ॥ ४॥
स्तोत्र — अष्टोत्तरशतनाम
नामाष्टशतमाख्यातं तच्छृणुष्व महामते ।
सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः ॥ ५॥
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ।
पृथिव्यापश्च तेजश्च खं वायुश्च परायणः ॥ ६॥
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ।
इन्द्रो विवस्वान्दीप्तांशुः शुचिः सौरिः शनैश्चरः ॥ ७॥
ब्रह्मा रुद्रश्च विष्णुश्च स्कन्दो वैश्रवणो यमः ।
वैद्युतो जाठरश्चाग्निरिन्धनस्तेजसां पतिः ॥ ८॥
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ।
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ॥ ९॥
कलाकाष्ठामुहूर्ताश्च पक्षा मासा अहर्निशाः ।
संवत्सरकरोऽश्वस्थः कालचक्रो विभावसुः ॥ १०॥
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ।
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ॥ ११॥
वरुणः सागरोंऽशुश्च जीवन्तो जीवनोऽरिहा ।
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः ॥ १२॥
स्रष्टा संवर्तको वह्निः सर्वस्यादिकरोऽमलः ।
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ॥ १३॥
जयो विषादो वरदः सर्वधातुनिषेवितः ।
समः सुवर्णो भूतादिः शीघ्रगः प्राणधारकः ॥ १४॥
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ।
द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः ॥ १५॥
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥ १६॥
फलश्रुति
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।
नाम्नामष्टोत्तरशतं प्रोक्तं शक्रेण धीमता ॥ १७॥
शक्राच्च नारदः प्राप्तो धौम्यस्तु तदनन्तरम् ।
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ १८॥
एतानि कीर्तनीयस्य सूर्यस्यामिततेजसः ।
नामानि यः पठेन्नित्यं सर्वान्कामानवाप्नुयात् ॥ १९॥
सुरपितृमनुजयक्षसेवितमसुरनिशाचरसिद्धवन्दितम् ।
वरकनकहुताशनप्रभं त्वमपि नम हिताय भास्करम् ॥ २०॥
सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसंचयान् ।
लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पुमान् ॥ २१॥
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुद्धमनाः समाहितः ।
स मुच्यते शोकदवाग्निसाराल्लभेत कामान्मनसा यथेप्सितान् ॥ २२॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनादित्यमाहात्म्यसूर्याष्टोत्तरशतनाममाहात्म्यवर्णनं नामैकोनाशीत्युत्तरद्विशततमोऽध्यायः ॥ २७९॥
