पूर्वभाग
अगस्तिरुवाच
एवं सुतीष्ण सीतायाः कवचं ते मयेरितम् ।
अतः परं शृणुष्वान्यत् सीतायाः स्तोत्रमुत्तमम् ॥ १॥
यस्मिन्नष्टोत्तरशतं सीतानामानि सन्ति हि ।
अष्टोत्तरशतं सीतानाम्नां स्तोत्रमनुत्तमम् ॥ २॥
ये पठन्ति नरास्त्वत्र तेषां च सफलो भवः ।
ते धन्या मानवा लोके ते वैकुण्ठं व्रजन्ति हि ॥ ३॥
विनियोग
अस्य श्रीसीतानामाष्टोत्तरशतमन्त्रस्य अगस्त्य ऋषिः ।
अनुष्टुप् छन्दः ।
रमेति बीजम् ।
मातुलिङ्गीति शक्तिः ।
पद्माक्षजेति कीलकम् ।
अवनिजेत्यस्त्रम् ।
जनकजेति कवचम् ।
मूलकासुरमर्दिनीति परमो मन्त्रः ।
श्रीसीतारामचन्द्रप्रीत्यर्थं सकलकामनासिद्ध्यर्थं जपे विनियोगः ।
करन्यास
ॐ सीतायै अङ्गुष्ठाभ्यां नमः ।
ॐ रमायै तर्जनीभ्यां नमः ।
ॐ मातुलिङ्ग्यै मध्यमाभ्यां नमः ।
ॐ पद्माक्षजायै अनामिकाभ्यां नमः ।
ॐ अवनिजायै कनिष्ठिकाभ्यां नमः ।
ॐ जनकजायै करतलकरपृष्ठाभ्यां नमः ।
षडङ्गन्यास — अङ्गन्यास
ॐ सीतायै हृदयाय नमः ।
ॐ रमायै शिरसे स्वाहा ।
ॐ मातुलिङ्ग्यै शिखायै वषट् ।
ॐ पद्माक्षजायै नेत्रत्रयाय वौषट् ।
ॐ जनकात्मजायै अस्त्राय फट् ।
ॐ मूलकासुरमर्दिन्यै इति दिग्बन्धः ।
ध्यान
वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना
या विप्राधिप यान रम्य नयना या विप्रपालानना ।
विद्युत्पुञ्ज विराजमान वसना भक्तार्ति सङ्खण्डना
श्रीमद् राघव पादपद्मयुगल न्यस्तेक्षणा सावतु ॥
स्तोत्र — अष्टोत्तरशतनाम
श्री सीता जानकी देवी वैदेही राघवप्रिया ।
रमावनिसुता रामा राक्षसान्त प्रकारिणी ॥ १॥
रत्नगुप्ता मातुलिङ्गी मैथिली भक्ततोषदा ।
पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना ॥ २॥
वैकुण्ठनिलया मा श्रीः मुक्तिदा कामपूरणी ।
नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी ॥ ३॥
कुशाम्बिका दिव्यदा च लवमाता मनोहरा ।
हनूमद् वन्दितपदा मुग्धा केयूर धारिणी ॥ ४॥
अशोकवन मध्यस्था रावणादिग मोहिनी ।
विमानसंस्थिता सुभ्रू सुकेशी रशनान्विता ॥ ५॥
रजोरूपा सत्त्वरूपा तामसी वह्निवासिनी ।
हेममृगासक्त चित्ता वाल्मीकाश्रम वासिनी ॥ ६॥
पतिव्रता महामाया पीतकौशेय वासिनी ।
मृगनेत्रा च बिम्बोष्ठी धनुर्विद्या विशारदा ॥ ७॥
सौम्यरूपा दशरथस्नुषा चामर वीजिता ।
सुमेधा दुहिता दिव्यरूपा त्रैलोक्यपालिनी ॥ ८॥
अन्नपूर्णा महालक्ष्मीः धीर्लज्जा च सरस्वती ।
शान्तिः पुष्टिः शमा गौरी प्रभायोध्या निवासिनी ॥ ९॥
वसन्तशीलता गौरी स्नान सन्तुष्ट मानसा ।
रमानाम भद्रसंस्था हेमकुम्भ पयोधरा ॥ १०॥
सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी ।
लघूदरा वरारोहा हेमकङ्कण मण्डिता ॥ ११॥
द्विज पत्न्यर्पित निजभूषा राघव तोषिणी ।
श्रीराम सेवन रता रत्न ताटङ्क धारिणी ॥ १२॥
रामावामाङ्ग संस्था च रामचन्द्रैक रञ्जिनी ।
सरयूजल सङ्क्रीडा कारिणी राममोहिनी ॥ १३॥
सुवर्ण तुलिता पुण्या पुण्यकीर्तिः कलावती ।
कलकण्ठा कम्बुकण्ठा रम्भोरूर्गजगामिनी ॥ १४॥
रामार्पितमना रामवन्दिता रामवल्लभा ।
श्रीरामपद चिह्नाङ्गा राम रामेति भाषिणी ॥ १५॥
रामपर्यङ्क शयना रामाङ्घ्रि क्षालिनी वरा ।
कामधेन्वन्न सन्तुष्टा मातुलिङ्ग कराधृता ॥ १६॥
दिव्यचन्दन संस्था श्री मूलकासुर मर्दिनी ।
एवं अष्टोत्तरशतं सीतानाम्नां सुपुण्यदम् ॥ १७॥
फलश्रुति
ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः ।
अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम् ॥ १८॥
जपनीयं प्रयत्नेन सर्वदा भक्तिपूर्वकम् ।
सन्ति स्तोत्राण्यनेकानि पुण्यदानि महान्ति च ॥ १९॥
नानेन सदृशानीह तानि सर्वाणि भूसुर ।
स्तोत्राणामुत्तमं चेदं भुक्तिमुक्तिप्रदं नृणाम् ॥ २०॥
एवं सुतीष्ण ते प्रोक्तं अष्टोत्तरशतं शुभम् ।
सीतानाम्नां पुण्यदं च श्रवणान्मङ्गलप्रदम् ॥ २१॥
नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः ।
सीतापूजनकालेऽपि सर्ववाञ्छितदायकम् ॥ २२॥
॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये मनोहरकाण्डे सीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
