पूर्वभाग — धरणी-शेष संवाद
धरण्युवाच
अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम् ॥ १३॥
तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः ।
जयोपाधिनियुक्तानि सन्ति नामान्यनेकशः ॥ १४॥
तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् ।
तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके ॥ १५॥
नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ।
शेष उवाच
वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम् ॥ १६॥
सर्वमङ्गलमूर्धन्यमणिमाद्यष्टसिद्धिदम् ।
महापातककोटिघ्नं सर्वतीर्थफलप्रदम् ॥ १७॥
समस्तजपयज्ञानां फलदं पापनाशनम् ।
शृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ॥ १८॥
सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ १९॥
तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् ।
नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥ २०॥
छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः ।
स्तोत्र — अष्टोत्तरशतनाम
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥ २१॥
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ।
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ॥ २२॥
चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः ।
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ॥ २३॥
यमुनावेगसंहारी बलभद्रप्रियानुजः ।
पूतनाजीवितहरः शकटासुरभञ्जनः ॥ २४॥
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ।
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥ २५॥
नवनीतलवाहारी मुचुकुन्दप्रसादकृत् ।
षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥ २६॥
शुकवागमृताब्धीन्दुर्गोविन्दो गोविदांपतिः ।
वत्सपालनसंचारी धेनुकासुरमर्दनः ॥ २७॥
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ।
उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ २८॥
गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ।
इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ २९॥
वनमाली पीतवासाः पारिजातापहारकः ।
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ३०॥
अजो निरञ्जनः कामजनकः कञ्जलोचनः ।
मधुहा मथुरानाथो द्वारकानाथको बली ॥ ३१॥
वृन्दावनान्तसंचारी तुलसीदामभूषणः ।
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ ३२॥
कुब्जाकृष्टाम्बरधरो मायी परमपूरुषः ।
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ ३३॥
संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ।
अनादिब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ ३४॥
शिशुपालशिरश्छेत्ता दुर्योधनकुलान्तकृत् ।
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ ३५॥
सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ।
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ ३६॥
जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः ।
वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥ ३७॥
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ ३८॥
कालीयफणिमाणिक्यरञ्जितः श्रीपदाम्बुजः ।
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ ३९॥
नारायणः परं ब्रह्म पन्नगाशनवाहनः ।
जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ ४०॥
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ।
सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ ४१॥
फलश्रुति
इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ।
कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ ४२॥
स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् ।
कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥ ४३॥
अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् ।
दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ ४४॥
पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ।
पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ ४५॥
धनावहं दरिद्राणां जयेच्छूनां जयावहम् ।
शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्धनम् ॥ ४६॥
बालरोगग्रहादीनां शमनं शान्तिकारकम् ।
अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥ ४७॥
असिद्धसाधकं भद्रे जपादिकरमात्मनाम् ।
कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥ ४८॥
नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ।
इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् ॥ ४९॥
सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् ।
पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥ ५०॥
निषेव्य भोगानन्तेऽपि कृष्णसायुज्यमाप्नुयात् ।
॥ इति श्रीब्रह्माण्डमहापुराणे मध्यभागे कृष्णाष्टोत्तरशतनामस्तोत्रम् ॥
