पूर्वभाग
इति श्रुत्वा कथां पुण्यां गौरीवीर्यविचित्रिताम् ।
अपृच्छद् भार्गवो भूयो दत्तात्रेयं महामुनिम् ॥ १॥
भगवन्नद्भुततमं गौर्या वीर्यमुदाहृतम् ।
शृण्वतो न हि मे तृप्तिः कथां ते मुखनिःसृताम् ॥ २॥
गौर्या नामाऽष्टशतकं यच्छच्यै धिषणो जगौ ।
तन्मे कथय यच्छ्रोतुं मनो मेऽत्यन्तमुत्सुकम् ॥ ३॥
भार्गवेणेत्थमापृष्टो योगिराडत्रिनन्दनः ।
अष्टोत्तरशतं नाम्नां प्राह गौर्या दयानिधिः ॥ ४॥
जामदग्न्य शृणु स्तोत्रं गौरीनामभिरङ्कितम् ।
मनोहरं वाञ्छितदं महाऽऽपद्विनिवारणम् ॥ ५॥
विनियोग
स्तोत्रस्याऽस्य ऋषिः प्रोक्त अङ्गिराश्छन्द ईरितः ।
अनुष्टुब् देवता गौरी आपन्नाशाय यो जपेत् ॥ ६॥
ह्रां ह्रीं इत्यादि विन्यस्य ध्यात्वा स्तोत्रमुदीरयेत् ।
ध्यान
सिंहसंस्थां मेचकाऽऽभां कौसुम्भांऽशुकशोभिताम् ॥ ७॥
खड्गं खेटं त्रिशूलं च मुद्गरं बिभ्रतीं करैः ।
चन्द्रचूडां त्रिनयनां ध्यायेद् गौरीमभीष्टदाम् ॥ ८॥
स्तोत्र — अष्टोत्तरशतनाम
गौरी गोजननी विद्या शिवा देवी महेश्वरी ।
नारायणाऽनुजा नम्रभूषणा नुतवैभवा ॥ ९॥
त्रिनेत्रा त्रिशिखा शम्भुसंश्रया शशिभूषणा ।
शूलहस्ता श्रुतधरा शुभदा शुभरूपिणी ॥ १०॥
उमा भगवती रात्रिः सोमसूर्याऽग्निलोचना ।
सोमसूर्यात्मताटङ्का सोमसूर्यकुचद्वयी ॥ ११॥
अम्बा अम्बिका अम्बुजधरा अम्बुरूपा आप्यायिनी स्थिरा ।
शिवप्रिया शिवाऽङ्कस्था शोभना शुम्भनाशिनी ॥ १२॥
खड्गहस्ता खगा खेटधरा खाऽच्छनिभाऽऽकृतिः ।
कौसुम्भाञ्चला कौसुम्भप्रिया कुन्दनिभद्विजा ॥ १३॥
काली कपालिनी क्रूरा करवालकरा क्रिया ।
काम्या कुमारी कुटिला कुमाराऽम्बा कुलेश्वरी ॥ १४॥
मृडानी मृगशावाक्षी मृदुदेहा मृगप्रिया ।
मृकण्डुपूजिता माध्वीप्रिया मातृगणेडिता ॥ १५॥
मातृका माधवी माद्यन्मानसा मदिरेक्षणा ।
मोदरूपा मोदकरी मुनिध्येया मनोन्मनी ॥ १६॥
पर्वतस्था पर्वपूज्या परमाऽर्थदा ।
परात्परा परामर्शमयी परिणताऽखिला ॥ १७॥
पाशिसेव्या पशुपतिप्रिया पशुवृषस्तुता ।
पश्यन्ती परचिद्रूपा परीवादहरा परा ॥ १८॥
सर्वज्ञा सर्वरूपा सा सम्पत्तिः सम्पदुन्नता ।
आपन्निवारिणी भक्तसुलभा करुणामयी ॥ १९॥
कलावती कलामूला कलाकलितविग्रहा ।
गणसेव्या गणेशाना गतिर्गमनवर्जिता ॥ २०॥
ईश्वरीशानदयिता शक्तिः शमितपातका ।
पीठगा पीठिकारूपा पृषत्पूज्या प्रभामयी ॥ २१॥
महामाया मतङ्गेष्टा लोकाऽलोका शिवाङ्गना ।
फलश्रुति
एतत्तेऽभिहितं राम स्तोत्रमत्यन्तदुर्लभम् ॥ २२॥
गौर्याष्टोत्तरशतनामभिः सुमनोहरम् ।
आपदम्भोधितरणे सुदृढप्लवरूपकम् ॥ २३॥
एतत् प्रपठतां नित्यमापदो यान्ति दूरतः ।
गौरीप्रसादजननमात्मज्ञानप्रदं नृणाम् ॥ २४॥
भक्त्या प्रपठतां पुंसां सिध्यत्यखिलमीहितम् ।
अन्ते कैवल्यमाप्नोति सत्यं ते भार्गवेरितम् ॥ २५॥
