सहस्रनाम · श्री गणेश

श्रीगणेशसहस्रनामस्तोत्रम्

श्री गणेश के एक हज़ार नामों का स्तोत्र। गणेश पुराण के अनुसार त्रिपुर-विजय के समय विघ्न आने पर भगवान शिव ने महागणपति की पूजा की, तब महागणपति ने स्वयं अपने ये सहस्र नाम बताए। यहाँ विनियोग, करन्यास, हृदयादि न्यास, ध्यान, मूल स्तोत्र और फलश्रुति पूरे क्रम में है।

सहस्रनाम स्तोत्र169 श्लोकविनियोग · न्यास · ध्यान · फलश्रुति

पाठ से पहले — «ॐ» के विषय में

परम्परा के अनुसार «ॐ» (प्रणव) का उच्चारण यज्ञोपवीत संस्कार के बाद किया जाता है। जिनका यज्ञोपवीत संस्कार नहीं हुआ है, वे पाठ में आए «ॐ» को छोड़कर, या उसके स्थान पर «नमः» कहकर पाठ आगे करते रहें — भाव और श्रद्धा से किया गया पाठ पूर्ण है।

आपका चुनाव इस फ़ोन में याद रहता है; पूरे पाठ में «ॐ» उसी के अनुसार दिखेगा।

यज्ञोपवीत संस्कार — न्यूनतम, श्रेष्ठ और अधिकतम आयु
वर्णन्यूनतम आयुश्रेष्ठ आयुअधिकतम आयु
ब्राह्मण5वाँ वर्ष8वाँ वर्ष16 वर्ष
क्षत्रिय6ठा वर्ष11वाँ वर्ष22 वर्ष
वैश्य8वाँ वर्ष12वाँ वर्ष24 वर्ष

(आयु की गणना गर्भ से की जाती है।)

न्यूनतम आयु — मनुस्मृति 2.37

ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे॥

अर्थ: ब्रह्मतेज की इच्छा हो तो ब्राह्मण का 5वें वर्ष में, बल की इच्छा हो तो क्षत्रिय का 6ठे वर्ष में और धन-समृद्धि की इच्छा हो तो वैश्य का 8वें वर्ष में उपनयन करें।

श्रेष्ठ आयु — मनुस्मृति 2.36

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः॥

अर्थ: ब्राह्मण का उपनयन गर्भ से 8वें वर्ष में, क्षत्रिय का 11वें वर्ष में और वैश्य का 12वें वर्ष में करना चाहिए।

अधिकतम आयु — मनुस्मृति 2.38

आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते।
आद्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः॥

अर्थ: ब्राह्मण के लिए 16 वर्ष, क्षत्रिय के लिए 22 वर्ष और वैश्य के लिए 24 वर्ष तक सावित्री का काल नहीं बीतता।

मनुस्मृति 2.39

अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः॥

अर्थ: अधिकतम आयु के बाद भी जिनका संस्कार नहीं हुआ, वे सावित्री-पतित (व्रात्य) हो जाते हैं। उनके लिए प्रायश्चित्त (व्रात्य-स्तोम) करके ही उपनयन का विधान है।

(पारस्कर गृह्यसूत्र 2.5 और याज्ञवल्क्य स्मृति 1.37 में भी यही आयु-सीमाएँ बताई गई हैं।)

🙏 अपने बालक का यज्ञोपवीत संस्कार समय रहते कराएँ।

0/ 1

पाठ-गिनती

संकल्प के अनुसार पाठ गिनिए

दिनों का संकल्प

रोज़ याद दिलाएँcalendar में जोड़ें

पूर्वभाग

व्यास उवाच

कथं नाम्नां सहस्रं तद् गणेश उपदिष्टवान् ।
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ १॥

ब्रह्मोवाच

देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २॥

मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ ३॥

विघ्नप्रशमनोपायमपृच्छत्तं पराजितः ।
संतुष्टः पूजया शंभोर्महागणपतिः स्वयम् ॥ ४॥

सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वस्य नाम्नां सहस्रमिदमब्रवीत् ॥ ५॥

विनियोग

अस्य श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रमालामहामंत्रस्य श्रीमहागणपतिर्ऋषिः ।
श्रीस्वानंदेशो ब्रह्मणस्पतिर्देवता ।
नानाविधानि च्छंदांसि ।
हुमिति बीजम् ।
तुंगमिति शक्तिः ।
स्वाहाशक्तिरिति कीलकम् ।
सकलविघ्नविनाशनद्वारा श्रीब्रह्मणस्पतिप्रीत्यर्थं जपे विनियोगः ।

करन्यास

गणेश्वरो गणक्रीड इत्यंगुष्ठाभ्यां नमः ।
कुमारगुरुरीशानेति तर्जनीभ्यां नमः ।
ब्रह्मांडकुंभश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तो रक्तांबरधर इत्यनामिकाभ्यां नमः ।
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः सुभक्तानामिति करतलकरपृष्ठाभ्यां नमः ।

षडङ्गन्यास — हृदयादि न्यास

छंदश्छंदोद्भव इति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानंद इति कवचाय हुम् ।
अष्टांगयोगफलभृदिति नेत्रत्रयाय वौषट् ।
अनंतशक्तिसहित इत्यस्त्राय फट् ।
इति दिग्बंधः ।

ध्यान

रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरूढं त्रिनेत्रं
पाशं चैवांकुशाढ्यं परशुमभयदं बाहुभिर्धारयंतम् ।
शक्त्या युक्तं गजास्यं पृथुतरजठरं सिद्धिबुद्धीसमेतं
रक्तं चंद्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ॥ १॥

श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रीस्वानंदेशाय ब्रह्मणस्पतये सांगाय सपरिवाराय सशक्तिकाय सायुधाय सवाहनाय सावरणाय नमः ।
इति नाममंत्रेण मानसैः पञ्चोपचारैः संपूज्य पठेत् ।

स्तोत्र — सहस्रनाम

श्रीमहागणपतिरुवाच

गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदंष्ट्रो वक्रतुंडो गजवक्त्रो महोदरः ॥ १॥

लंबोदरो धूम्रवर्णो विकटो विघ्ननायकः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ २॥

भीमः प्रमोद आमोदः सुरानंदो महोत्कटः ।
हेरंबः शंबरः शंभुर्लंबकर्णो महाबलः ॥ ३॥

नंदनो लंपटो भीममेघनादो गणंजयः ।
विनायको विरूपाक्षो वीरशूरवरप्रदः ॥ ४॥

महागतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ ५॥

कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धिः सिद्धिविनायकः ॥ ६॥

अविघ्नस्तुंबरुः सिंहवाहनो मोहिनीप्रियः ।
कटंकटो राजपुत्रः शाकलः संमितोऽमितः ॥ ७॥

कूष्मांडसामसंभूतिर्दुर्जयो धुर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ ८॥

विश्वकर्ता विश्वमुखो विश्ववंद्यो विनिर्गुणः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः ॥ ९॥

ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरांतःस्थः सूर्यमंडलमध्यगः ॥ १०॥

कराहतिध्वस्तसिंधुसलिलः पूषदंतभित् ।
उमांककेलिकुतुकी मुक्तिदः कुलपालनः ॥ ११॥

किरीटिकुंडलिहारिवनमालिमनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहत्येजितक्षितिः ॥ १२॥

सद्योजातः स्वर्णमुंजमेखली दुर्निमित्तहृत् ।
दुःस्वप्नदुष्टशमनो गुणी नादप्रतिष्ठितः ॥ १३॥

सुरूपः सर्वनेत्राधिवासो विभ्राजिनूपुरः ।
पीतांबरः खंडरदः खंडवैशाखसंस्थितः ॥ १४॥

चित्रांगः श्यामदशनो भालचंद्रो हविर्भुजः ।
योगाधिपस्तारकस्थपुरुषो गजकर्णकः ॥ १५॥

गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी ।
देवदेवः स्मरप्राणदीपको वायुकीलकः ॥ १६॥

विपश्चिद्वरदोन्नादो नादभिन्नमहाचलः ।
वराहवदनो मृत्युंजयो व्याघ्राजिनांबरः ॥ १७॥

इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।
शंभुवक्त्रोद्भवः शंभुकोपजः शंभुहास्यभूः ॥ १८॥

शंभुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमांगमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ १९॥

मत्तकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्द्धा ककुप्श्रुतिः ॥ २०॥

ब्रह्मांडकुंभश्चिद्व्योमभालः सन्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २१॥

गिरींद्रकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २२॥

भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।
कुलाचलांसः सोमार्कघंटो रुद्रशिरोधरः ॥ २३॥

नदीनदभुजः सर्पांगुलीकस्तारकानखः ।
व्योमनाभिः श्रीर्हृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २४॥

कुक्षिस्थयक्षगंधर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिंगः शैलोरुर्द्रस्रजानुकः ॥ २५॥

पातालजंघो सुनिपात्कालांगुष्ठस्त्रयीतनुः ।
ज्योतिर्मंडललांगूलो हृदयालाननिश्चलः ॥ २६॥

हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ २७॥

प्रतापी काश्यपो यंता गणको विष्टपी बली ।
यशस्वी धार्मिको जेता प्रथमः प्रथमेश्वरः ॥ २८॥

चिंतामणिद्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमंडपमध्यस्थो रत्नसिंहासनाश्रयः ॥ २९॥

तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।
नंदानंदितपीठश्रीर्भोगदाभूषितासनः ॥ ३०॥

सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३१॥

सविघ्ननाशिनीपीठः सर्वशक्त्यंबुजालयः ।
लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ ३२॥

उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजंघः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३३॥

निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कंधः कंबुकंठो लंबोष्ठो लंबनासिकः ॥ ३४॥

भग्नवामरदस्तुंगासव्यदंतो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ३५॥

स्तबकाकारकुंभाग्रो रत्नमौलिर्निरंकुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ३६॥

सर्पकोटीरकटकः सर्पग्रैवेयकांगदः ।
सर्पकक्षोदराबंधः सर्पराजोत्तरच्छदः ॥ ३७॥

रक्तो रक्तांबरधरो रक्तमाल्यविभूषणः ।
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ३८॥

श्वेतः श्वेतांबरधरः श्वेतमाल्यविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ३९॥

सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४०॥

सर्वमंगलमांगल्यः सर्वकारणकारणम् ।
सर्वदैककरः शार्ङ्गी बीजपूरी गदाधरः ॥ ४१॥

शुभ्रांगो लोकसारंगः सुतंतुस्तंतुवर्द्धनः ।
किरीटी कुंडली हारी वनमाली शुभांगदः ॥ ४२॥

इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालीमंजरीभृत्स्वदंतभृत् ॥ ४३॥

कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान्मुद्गरायुधः ॥ ४४॥

पूर्णपात्रो कंबुधरो विधृताक्षः सुमोदकः ।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ ४५॥

पुष्करस्थस्वर्णघटपूर्णरत्नांबुवर्षकः ।
भारतीसुंदरीनाथो विनायकरतिप्रियः ॥ ४६॥

महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वांगो दक्षिणोमामहेश्वरः ॥ ४७॥

महिवराहवामांगो रतिकंदर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्रमोदनः ॥ ४८॥

समेधितसमृद्धश्रीर्ऋद्धिसिद्धिप्रवर्धनः ।
दंतसौमुख्यसुमुखकांतिकंदलिताश्रयः ॥ ४९॥

मदनावत्याश्रितांघ्रिः कृतसौमुख्यदुर्मुखः ।
विघ्नसंपल्लवोद्विग्नसेवोन्निद्रमदद्रवः ॥ ५०॥

विघ्नकृन्निम्नचरणद्राविणीशक्तिसंवृतः ।
तीव्राप्रसन्नवदनो ज्वालिनीपालितैकदृक् ॥ ५१॥

मोहिनीमोहनो भोगदायिनीकीर्तिमंडितः ।
कामिनीकांतयुक्तश्रीस्तेजिन्यधिष्ठितैकदृक् ॥ ५२॥

वसुधारामदोन्नादो महाशंखनिधिप्रियः ।
नमद्वसुमतीमौलिप्रह्वः पद्मनिधिप्रभुः ॥ ५३॥

सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्द्धा देवेंद्रशिखः पवननंदनः ॥ ५४॥

प्रत्युग्ननयनादित्यो दिव्यास्त्राणां प्रयोगवित् ।
ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ ५५॥

वज्राद्यस्त्रपरीवारगणचंडसमाश्रयः ।
जयाजयपरिकरो विजयाविजयावहः ॥ ५६॥

अजयार्चितपादाब्जो नित्यानित्यावलंबितः ।
विलासिनीकृतोल्लासशौंडीसौंदर्यमंडितः ॥ ५७॥

अनंतानंतसुखदः सुमंगलसुमंगलः ।
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ ५८॥

सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकेलिलालितः ॥ ५९॥

सरस्वत्याश्रयो गौरीनंदनः श्रीनिकेतनः ।
गुरुगुप्तप्रदो वाचासिद्धो वागीश्वरीपतिः ॥ ६०॥

नलिनीकामुको रामावामाज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुंबीजस्तुंगशक्तिकः ॥ ६१॥

विश्वादिजननत्राणस्वाहाशक्तिसुकीलकः ।
अमृताब्धिकृतावासो मदाघूर्णितलोचनः ॥ ६२॥

उच्छिष्टोच्छिष्टगणपो गणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगंबरः ॥ ६३॥

अनपायोऽनंतशक्तिरप्रमेयोऽजरोऽमरः ।
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरम् ॥ ६४॥

अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः ।
अमेयसिद्धिरद्वैतमघोरोऽप्रमिताननः ॥ ६५॥

अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठ आधार आधाराधेयवर्जितः ॥ ६६॥

आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ६७॥

इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इंद्रगोपसमानश्रीरिंद्रनीलसमद्युतिः ॥ ६८॥

इंदीवरदलश्याम इंदुमंडलमंडितः ।
इध्मप्रिय इडाभाग इडाधर्मेंदिराप्रदः ॥ ६९॥

इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ ७०॥

ईषणात्रयकल्पांत इहामुत्रविवर्जितः ।
उपेंद्र उडुभृन्मौलिरुमदूरकपतिप्रियः ॥ ७१॥

उन्नतानन उत्तुंग उदार उदारत्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७२॥

ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभ ऋणत्रयविमोचनः ॥ ७३॥

लुप्तविघ्नः सुभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७४॥

एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७५॥

ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरावतसमोन्मेष ऐरावतनिभाननः ॥ ७६॥

ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिःस्वनः ॥ ७७॥

अंकुशः सुरनागानामंकुशाकारसंस्थितः ।
अः समस्तविसर्गाणां पदेषु परिकीर्तितः ॥ ७८॥

कमंडलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्त्ता कर्माकर्मफलप्रदः ॥ ७९॥

कदंबगोलकाकारकूष्मांडगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ८०॥

खर्वः खर्वप्रियः खड्गी खांतरस्थः खनिर्मलः ।
खल्वाटशृंगनिलयः खट्वांगी खदुरासदः ॥ ८१॥

गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जगीतो गीर्वाणपूर्वजः ॥ ८२॥

गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुह्याशयो गुडाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ॥ ८३॥

घंटाघर्घरिकामाली घटकुंभो घटोदरः ।
ङकारवाच्यो ङाकारो ङकाराकारशुंडभृत् ॥ ८४॥

चंडश्चंडेश्वरश्चंडचंडेशश्चंडविक्रमः ।
चराचरपिता चिंतामणिश्चर्वणलालसः ॥ ८५॥

छंदश्छंदोद्भवश्छंदो दुर्लक्ष्यश्छंदविग्रहः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ ८६॥

जपो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।
झलज्झल्लोल्लसद्दानो झंकारिभ्रमराकुलः ॥ ८७॥

टंकारस्फारसंरावष्टंकारमणिनूपुरः ।
ठद्वयपल्लवांतःस्थसर्वमंत्रेषु सिद्धिदः ॥ ८८॥

डिंडिमुंडो डाकिनीशो डामरो डिंडिमाप्रियः ।
ढक्कानिनादमुदितो ढौको ढौंढविनायकः ॥ ८९॥

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः ।
तारकांतरसंस्थानस्तारकस्तारकांतकः ॥ ९०॥

स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जंगमं जगत् ।
दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ ९१॥

दयावान्दिव्यविभवो दंडभृद्दंडनायकः ।
दंतप्रभिन्नभ्रमरो दैत्यवारणदारणः ॥ ९२॥

दंष्ट्रालग्नद्विपघटो देवार्थात्तगजाकृतिः ।
धनं धनपतेर्बंधुर्धनदो धरणीधरः ॥ ९३॥

ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारब्रह्मांडावलिमेखलः ॥ ९४॥

नंद्यो नदःप्रियो नादो नादमध्ये प्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९५॥

परं व्योम परं धाम परमात्मा परं पदम् ।
परात्परः पशुपतिः पशुपाशविमोचनः ॥ ९६॥

पूर्णानंदः परानंदः पुराणपुरुषोत्तमः ।
पद्मप्रसन्ननयनः प्रणताज्ञाननाशनः ॥ ९७॥

प्रमाणप्रत्ययातीतः प्रणतार्तिविनाशनः ।
फणिहस्तः फणिपतिः फूत्कारः फाणितप्रियः ॥ ९८॥

बाणार्चितांघ्रियुगलो बालकेलीकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ९९॥

बृहत्तरो ब्रह्मपरो ब्रह्मण्यब्रह्मवित्प्रियः ।
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ॥ १००॥

भगवान्भक्तिसुलभो भूतिदो भूतिभूषणः ।
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ॥ १०१॥

मंत्रो मंत्रपतिर्मंत्री मदमत्तो मनोमयः ।
मेखलाहीश्वरो मंदगतिर्मंदनिभेक्षणः ॥ १०२॥

महाबलो महावीर्यो महाप्राणो महामनाः ।
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ॥ १०३॥

यशस्करो योगगम्यो याज्ञिको याचकप्रियः ।
रसो रसप्रियो रस्यो रंजको रावणार्चितः ॥ १०४॥

राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ।
लक्ष्यो लक्ष्यपतिर्लक्ष्यलयस्थो लड्डुकप्रियः ॥ १०५॥

लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ।
वरेण्यो वह्निवदनो वंद्यो वेदांतगोचरः ॥ १०६॥

विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ।
वामदेवो वज्रिनेता वज्रिवज्रनिवारणः ॥ १०७॥

विवस्वद्बंधनो विश्वाधारो विश्वेश्वरो विभुः ।
शब्दब्रह्ममयप्राप्यः शंभुशक्तिगणेश्वरः ॥ १०८॥

शास्ता शिखाग्रनिलयः शरण्यः शंबरेश्वरः ।
षड्ऋतुकुसुमस्रग्वी षडाधारः षडक्षरः ॥ १०९॥

संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ।
सृष्टिस्थितिलयक्रीडः सुरकुंजरभेदकः ॥ ११०॥

सिंदूरितमहाकुंभः सदसद्व्यक्तिदायकः ।
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ॥ १११॥

स्वतंत्रः सत्यसंकल्पः सामगानरतः सुखी ।
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ॥ ११२॥

हव्यं हतप्रियो हृष्टो हृल्लेखामंत्रमध्यगः ।
क्षेत्राधिपः क्षमाभर्त्ता क्षमापरपरायणः ॥ ११३॥

क्षिप्रक्षेमकरः क्षेमनंदः क्षोणीसुरद्रुमः ।
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ॥ ११४॥

विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ।
अभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ॥ ११५॥

सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ।
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ११६॥

प्रतिवादिमुखस्तंभो रुष्टचित्तप्रसादनः ।
पराभिचारशमनो दुःखहा बंधमोक्षदः ॥ ११७॥

लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ।
घटी मुहूर्तं प्रहरो दिवानक्तमहर्निशम् ॥ ११८॥

पक्षो मासोऽयनं वर्षं युगः कल्पो महालयः ।
राशिस्तारा तिथिर्योगो वारः करणमंशकम् ॥ ११९॥

लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ।
राहुर्मदः कविर्जीवो बुधो भौमः शशी रविः ॥ १२०॥

कालः सृष्टिः स्थितिर्विश्वं स्थावरं जंगमं जगत् ।
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् ॥ १२१॥

ब्रह्मा विष्णुः शिवो रुद्र इंद्रः शक्तिः सदाशिवः ।
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ॥ १२२॥

साध्या विद्याधरा भूता मनुष्याः पशवः खगाः ।
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवम् ॥ १२३॥

सांख्यं पातंजलं योगः पुराणानि श्रुतिः स्मृतिः ।
वेदांगानि सदाचारो मीमांसान्यायविस्तरः ॥ १२४॥

आयुर्वेदो धनुर्वेदो गांधर्वं काव्यनाटकम् ।
वैखानसं भागवतं मानुषं पांचरात्रिकम् ॥ १२५॥

शैवं पाशुपतं कालमुखं भैरवशासनम् ।
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ॥ १२६॥

सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ।
बंधो मोक्षः सुखं भोगयोगः सत्यमणुर्महान् ॥ १२७॥

स्वस्तिहुंफट्स्वधास्वाहाश्रौषड्वौषड्वषण्नमः ।
ज्ञानं विज्ञानमानंदो बोधः संवित्समोऽसमः ॥ १२८॥

एक एकाक्षराधार एकाक्षरपरायणः ।
एकाग्रधीरेकवीर एकानेकस्वरूपधृक् ॥ १२९॥

द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ।
द्वैमातुरो द्विवदनो द्वंद्वहीनो द्वयातिगः ॥ १३०॥

त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ।
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ॥ १३१॥

चतुर्बाहुश्चतुर्दंतश्चतुरात्मा चतुर्मुखः ।
चतुर्मखमयोपायश्चतुर्वर्णाश्रमाश्रयः ॥ १३२॥

चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ।
चतुर्थीपूजनप्रीतिश्चतुर्थीतिथिसंभवः ॥ १३३॥

पंचाक्षरात्मा पंचात्मा पंचास्यः पंचपंचकृत् ।
पंचाधारः पंचवर्णः पंचाक्षरपरायणः ॥ १३४॥

पंचतालः पंचकरः पंचप्रणवमातृकः ।
पंचब्रह्ममयस्फूर्तिः पंचावरणवारितः ॥ १३५॥

पंचभक्षप्रियः पंचबाणः पंचशिवात्मकः ।
षट्कोणपीठः षट्चक्रधामा षड्ग्रंथिभेदकः ॥ १३६॥

षडंगध्वांगविध्वंसी षडंगुलमहाह्रदः ।
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ॥ १३७॥

षड्वैरिवर्गविध्वंसी षडूर्मिभयभंजनः ।
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ॥ १३८॥

सप्तपातालचरणः सप्तद्वीपोरुमंडलः ।
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ॥ १३९॥

सप्तांगराज्यसुखदः सप्तर्षिगणवंदितः ।
सप्तच्छंदोनिधिः सप्तहोता सप्तस्वराश्रयः ॥ १४०॥

सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ।
सप्तच्छंदोमोदमदः सप्तच्छंदोमखप्रभुः ॥ १४१॥

अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम् ।
अष्टांगयोगफलभृदष्टपत्रांबुजासनः ॥ १४२॥

अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रदायकः ।
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ॥ १४३॥

अष्टभैरवसेव्योऽष्टवसुवंद्योऽष्टमूर्तिभृत् ।
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ॥ १४४॥

नवनागासनाध्यासी नवनिध्यनुशासिता ।
नवद्वारपुरावृत्तो नवद्वारनिकेतनः ॥ १४५॥

नवनारायणस्तुत्यो नवदुर्गानिषेवितः ।
नवनाथमहानाथो नवनागविभूषणः ॥ १४६॥

नवरत्नविचित्रांगो नवशक्तिशिरोधृतः ।
दशात्मको दशभुजो दशदिक्पतिवंदितः ॥ १४७॥

दशाध्यायो दशप्राणो दशेंद्रियनियामकः ।
दशाक्षरमहामंत्रो दशाशाव्यापिविग्रहः ॥ १४८॥

एकादशादिभीरुद्रैः स्तुतश्चैकादशाक्षरः ।
द्वादशोद्दंडदोर्दंडद्वादशास्रनिकेतनः ॥ १४९॥

त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ।
चतुर्दशेंद्रवरदश्चतुर्दशमनुप्रभुः ॥ १५०॥

चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्पतिः ।
सामपंचदशः पंचदशी शीतांशुनिर्मलः ॥ १५१॥

षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशांतपदावासः षोडशेंदुकलात्मकः ॥ १५२॥

कलासप्तदशीसप्तदशः सप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ १५३॥

अष्टादशौषधिसृष्टिरष्टादशविधिस्मृतः ।
अष्टादशलिपिकृतिरष्टादशविजातिकृत् ॥ १५४॥

एकविंशत्युमानेकविंशत्यंगुलिपल्लवः ।
चतुर्विंशतितत्त्वात्मा पंचविंशाख्यपूरुषः ॥ १५५॥

सप्तविंशतितारेशः सप्तविंशतियोगकृत् ।
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ॥ १५६॥

षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलातनुः ।
नमदेकोनपंचाशन्मरुद्वर्गनिरर्गलः ॥ १५७॥

पंचाशदक्षरश्रेणी पंचाशद्रुद्रविग्रहः ।
पंचाशद्विष्णुशक्तीशः पंचाशन्मातृकालयः ॥ १५८॥

द्विपंचाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः ।
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः ॥ १५९॥

चतुःषष्टिमहासिद्धयोगिनीवृंदवंदितः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः ॥ १६०॥

चतुर्नवतिमंत्रात्मा षण्णवत्यधिकप्रभुः ।
शतानंदः शतधृतिः शतपत्रायतेक्षणः ॥ १६१॥

शतानीकः शतमखः शतधारवरायुधः ।
सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ १६२॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ १६३॥

दशसहस्रफणिभृत्फणिराजकृतासनः ।
अष्टाशीतिसहस्रौघमहर्षिस्तोत्रपाठितः ॥ १६४॥

लक्षाधारप्रियाधारो लक्षाधारमनोमयः ।
चतुर्लक्षजपप्रीतिश्चतुर्लक्षप्रकाशकः ॥ १६५॥

चतुरशीतिलक्षाणां जीवानां देहसंस्थितिः ।
कोटिसूर्यप्रतीकाशः कोटिचंद्रांशुनिर्मलः ॥ १६६॥

सप्तकोटिमहामंत्रमंत्रितावयवद्युतिः ।
शिवोद्भवाद्यष्टकोटिविनायकधुरंधरः ॥ १६७॥

त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।
अनंतदेवतासेव्यो ह्यनंतशुभदायकः ॥ १६८॥

अनंतनामानंतश्रीरनंतानंतसौख्यदः ।
अनंतशक्तिसहितो ह्यनंतमुनिसंस्तुतः ।
अनंतमुनिसंस्तुत ॐ नम इति ॥ १६९॥

उत्तरभाग — फलश्रुति

इति वैनायकं नाम्नां सहस्रमिदमीरितम् ।
इदं ब्राह्मे मुहूर्ते वै यः पठेत्प्रत्यहं नरः ॥ १७०॥

करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ।
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ १७१॥

मेधा प्रज्ञा धृतिः कांतिः सौभाग्यमतिरूपता ।
सत्यं दया क्षमा शांतिर्दाक्षिण्यं धर्मशीलता ॥ १७२॥

जगत्संवननं विश्वसंवादो वेदपाटवम् ।
सभापांडित्यमौदार्यं गांभीर्यं ब्रह्मवर्चसम् ॥ १७३॥

ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ।
ज्ञानं विज्ञानमास्तिक्यं धैर्यं विश्वासता तथा ॥ १७४॥

धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ १७५॥

राज्ञो राजकलत्रस्य राजपुत्रस्य मंत्रिणः ।
जपते यस्य वश्यार्थं स दासस्तस्य जायते ॥ १७६॥

धर्मार्थकाममोक्षाणामनायासेन साधनम् ।
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ १७७॥

साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ।
समस्तकलहध्वंसी दग्धं बीजप्ररोहणम् ॥ १७८॥

दुःस्वप्ननाशनं क्रुद्धस्वामिचित्तप्रसादनम् ।
षट्कर्माष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ १७९॥

परकृत्यप्रशमनं परचक्रविमर्दनम् ।
संग्रामो सर्वेषामेदमेकं जयावहम् ॥ १८०॥

सर्ववंध्यत्वदोषघ्नं गर्भरक्षैककारणम् ।
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ १८१॥

देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ।
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ १८२॥

क्षयः कुष्ठः प्रमेहांशौ भगंदरविषूचिके ।
गुल्म प्लीहा न वल्मीकमतिसारं महोदरम् ॥ १८३॥

कासं श्वास गुदावर्तं शूल शोफं जलोदरम् ।
शिरोरोगं वमिं हिक्कां गंडमालामरोचकम् ॥ १८४॥

वातपित्तकफद्वंद्वत्रिदोषजनितज्वरम् ।
आगंतुं विषमं शीतमुष्णं चैकाहिकादिकम् ॥ १८५॥

इत्याद्युक्तमनुक्तं वा रोगदोषादिसंभवम् ।
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ १८६॥

प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रपतितैरपि ।
सहस्रनाममंत्रोऽयं जप्तव्यस्तु शुभाप्तये ॥ १८७॥

महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ।
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ १८८॥

मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।
चंद्रेंद्रभास्करोपेंद्रब्रह्मशर्वादिसद्मसु ॥ १८९॥

कामरूपः कामगतिः कामदः कामदेश्वरः ।
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बंधुभिः ॥ १९०॥

गणेशानुचरो भूत्वा महागणपतेः प्रियः ।
नंदीश्वरादिसानंदैर्नंदितः सकलैर्गणैः ॥ १९१॥

शिवाभ्यां कृपया पुत्रनिर्विशेषेण लालितः ।
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ १९२॥

जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ।
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ १९३॥

योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थितिः ।
निरंतरोदितानंदे परमानंदसंज्ञिते ॥ १९४॥

विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ।
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ १९५॥

इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम् ।
व्याहृतं चर्चितं ध्यातं विमृष्टमभिनंदितम् ॥ १९६॥

इहामुत्र अविश्लेषं सर्वैश्वर्यप्रदायकम् ।
स्वच्छंदचारिणाऽप्येष येन संधार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरप्यष्टकोटिभिः ॥ १९७॥

लिखितं पुस्तके स्तोत्रं मंत्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरंतरम् ॥ १९८॥

दानैरशेषैरखिलैर्व्रतैश्च
तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विंदति यद्गणेशसहस्रनाम्ना स्मरणेन सद्यः ॥ १९९॥

एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यंदिने वा त्रिषवणमथवा संततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति
दारिद्र्यं हंति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ २००॥

अकिंचनोऽप्येकचित्तो नियतो नियताशनः ।
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ २०१॥

दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ २०२॥

आयुष्यं वीतरोगं कुलमतिविमलं संपदः श्रेणिदानाः
कीर्तिः पुण्यावदाता भणतिरभिनवा कांतिरव्याधिभव्या ।
पुत्राः संतः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त-
न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ २०३॥

गणंजयो गणपतिर्हेरंबो धरणीधरः ।
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ २०४॥

अमोघसिद्धिरमितमंत्रश्चिंतामणिर्निधिः ।
सुमंगलो बीजमाशापूरको वरदः कविः ॥ २०५॥

काश्यपो नंदनो वाचासिद्धो ढुंढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ २०६॥

यः स्तौति मद्गतमना मदाराधनतत्परः ।
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥ २०७॥

नमो नमः सुरवरपूजितांघ्रये
नमो नमो निरुपममंगलात्मने ।
नमो नमो विपुलसाधकसिद्धये
नमो नमः करिकलभाननाय ते ॥ २०८॥

किंकिणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः ।
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिर्नृप नाम्ना ॥ २०९॥

॥ इति श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उपासनाखंडे ईश्वरमहागणपतिसंवादे श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रकथनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६॥

॥ इति ॥

पाठ सम्पन्न हुआ। भगवान के चरणों में पुष्प अर्पित कीजिए।

WhatsApp Consultation