स्तोत्र — अष्टोत्तरशतनाम
विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कन्दाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १॥
अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीप्रदोऽव्ययः ।
सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥ २॥
सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः ।
शुद्धो बुद्धिप्रियः शान्तो ब्रह्मचारी गजाननः ॥ ३॥
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः ॥ ४॥
लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५॥
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।
अकल्मषः स्वयंसिद्धः सिद्धार्चितपदाम्बुजः ॥ ६॥
बीजपूरफलासक्तो वरदः शाश्वतः कृती ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७॥
श्रीदोऽज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८॥
चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।
आश्रितश्रीकरः सौम्यो भक्तवाञ्छितदायकः ॥ ९॥
शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः ।
ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ॥ १०॥
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ।
रमार्चितो विधिर्नागराजयज्ञोपवीतवान् ॥ ११॥
स्थूलकण्ठः स्वयंकर्ता सामघोषप्रियः परः ।
स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ॥ १२॥
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् ।
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ १३॥
स्वलावण्यसुधासारो जितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥ १४॥
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ॥ १५॥
फलश्रुति
तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुद्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ १६॥
दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥ १७॥
॥ इति श्रीभविष्योत्तरपुराणे विघ्नेश्वराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
